Aindram Musical

Ancient Inspiration. Modern Expression

Mahān Indro Vajravān | महानिन्द्रो वज्रवान्

इन्द्रं सानसिमोजिष्ठं
रयिं भर सदासहम् ।
वर्षिष्ठं वीर्यसम्पन्नं
जयदं नः सदा भव ॥

येन मुष्टिप्रहारेण
वृत्रान् नि रुणधामहि ।
त्वया रक्षिताः शत्रून्
अर्वता सं जयेमहि ॥

इन्द्र तवोतासो वयं
वज्रं घना ददीमहि ।
जयेम सं युधि स्पर्धः
सासह्याम पृतन्यतः ॥

महानिन्द्रो वज्रवान्
महित्वा विश्वतो महान् ।
द्यौरिवास्य बलं महत्
प्रथतां सर्वतः सदा ॥

यः कुक्षिः सोमपातमः
समुद्रोऽप्स्विव पिन्वते ।
गोमतीरापो नः पिन्वन्
स्तोमैर्वर्धेम इन्द्रम् ॥

··················

Comments

Leave a comment